|
|
 |
 |
|
|
१० सौप्तिकपर्व.jpg)
॥ श्रीः ॥
10.17. अध्यायः 017
Mahabharata - Sauptika Parva - Chapter Topics
युधिष्ठिरेण द्रौणेरेकस्य बहुमारणशक्तिप्रश्ने कृष्णेन रुद्रप्रसादादित्युक्त्वा रुद्रमहिमकथनम्॥ 1 ॥

Mahabharata - Sauptika Parva - Chapter Text
वैशम्पायन उवाच। 10-17-0x(5303)(64725)
हतेषु सर्वसैन्येषु सौप्तिकै तै रथैस्त्रिभिः।
शोचन्युधिष्ठिरो राजा दाशार्हमिदमब्रवीत्॥ 10-17-1(64726)
कथं नु कृष्ण पापेन क्षुद्रेण शठबुद्धिना।
द्रौणिना निहताः सर्वे मम पुत्रा महारथाः॥ 10-17-2(64727)
तथा कृतास्रविक्रान्ताः सङ्ग्रामेष्वपलायिनः।
द्रुपदस्यात्मजाश्चैव द्रोणपुत्रेण पातिताः॥ 10-17-3(64728)
यस्य द्रोणो महेष्वासो न प्रादादाहवे मुखम्।
निजघ्ने रथिनां श्रेष्ठं धृष्टद्युम्नं कथं नु सः॥ 10-17-4(64729)
किन्नु तेन कृतं कर्म तथायुक्तं नरर्षभ।
यदेकः समरे सर्वानवधीन्नो गुरोः सुतः॥ 10-17-5(64730)
श्रीभगवानुवाच। 10-17-6x(5304)
नूनं स देवदेवानामीश्वरेश्वरमव्ययम्।
जगाम शरणं द्रौणिरेकस्तेनावधीद्बहून्॥ 10-17-6(64731)
प्रसन्नो हि महादेवो दद्यादमरतामपि।
वीर्यं च गिरिशो दद्याद्येनेन्द्रमपि शातयेत्॥ 10-17-7(64732)
वेदाहं हि महादेवं तत्त्वेन भरतर्षभ।
यानि चास्यपुराणानि कर्माणि विविधानि च॥ 10-17-8(64733)
आदिरेष हि भूतानां मध्यमन्तश्च भारत।
विचेष्टते जगच्चेदं सर्वमस्यैव कर्मणा॥ 10-17-9(64734)
एवं सिसृक्षुर्भूतानि ददर्श प्रथमं विभुः।
पितामहोऽब्रवीच्चैनं भूतानि सृज माचिरम्॥ 10-17-10(64735)
हरिकेशस्तथेत्युक्वा दीर्घदर्शी तदा प्रभुः।
दीर्घकालं तपस्तेपे मग्नोऽम्भसि महातपाः॥ 10-17-11(64736)
सुमहान्तं ततः कालं प्रतीक्ष्यैनं पितामहः।
स्रष्टारं सर्वभूतानां ससर्ज मनसाऽपरम्॥ 10-17-12(64737)
सोऽब्रवीद्वातरं दृष्ट्वा गिरिशं सुप्तमम्भसि।
यदि मे नाग्रजोऽस्त्यन्यस्ततः स्रक्ष्याम्यहं प्रजाः॥ 10-17-13(64738)
तमब्रवीत्पिता नास्ति त्वदन्यः पुरुषोऽग्रजः।
स्थाणुरेष जले मग्नो विस्रब्धः कुरु वै प्रजाः॥ 10-17-14(64739)
भूतान्यन्वसृजत्सप्त दक्षः क्षिप्रं प्रजापतिः।
यैरिमं व्यकरोत्सर्वं भूतग्रामं चतुर्विधम्॥ 10-17-15(64740)
ताः सृष्टमात्राः क्षुधिताः प्रजाः सर्वाः प्रजापतिम्।
बिभक्षयिवो राजन्सहसा प्राद्रवंस्तदा॥ 10-17-16(64741)
स भक्ष्यमाणस्त्राणार्थी पितामहमुपाद्रवत्।
आभ्यो मां भगवांस्त्रातु वृत्तिरासां विधीयताम्॥ 10-17-17(64742)
ततस्ताभ्यो ददावन्नमोषधीः स्थावराणि च।
जङ्गमानि च भूतानि दुर्बलानि बलीयसाम्॥ 10-17-18(64743)
विहितान्नाः प्रजास्तास्तु जग्मुस्तुष्टा यथागतम्।
ततो ववृधिरे राजन्प्रीतिमत्यः स्वयोनिषु॥ 10-17-19(64744)
भूतग्रामे विवृद्वे तु सृष्टे देवासुरे तदा।
उदतिष्ठज्जलाज्ज्येष्ठः प्रजाश्चेमा ददर्श सः॥ 10-17-20(64745)
बहुरूपाः प्रजाः सृष्टा विवृद्धाश्च स्वतेजसा।
चुक्रोध बलवद्दृष्ट्वा लिङ्गं स्वं चाप्यविध्यत॥ 10-17-21(64746)
तत्प्रविद्धं तथा भूमौ तथैव प्रत्यतिष्ठत।
तमुवाचाव्ययो ब्रह्मा वचोभिः शमयन्निव॥ 10-17-22(64747)
किं कृतं सलिले शर्व चिरकालस्थितेन ते।
किमर्थं चेदमुत्पाद्य लिङ्गं भूमौ प्रवेशितम्॥ 10-17-23(64748)
सोऽब्रवीज्जातसंरम्भस्तथा लोकगुरुर्गुरुम्।
प्रजाः सृष्टाः परेणेमाः किं करिष्याम्यनेन वै॥ 10-17-24(64749)
प्रजाः सृष्टाः परेणेमाः प्रजार्थं मे पितामह।
ओषध्यः परिवर्तेरन्यथैवं सततं प्रजाः॥ 10-17-25(64750)
एवमुक्त्वा स सक्रोधो जगाम विमना भवः।
गिरेर्मुञ्जवतः पादं तपस्तप्तुं महातपाः॥ ॥ 10-17-26(64751)
इति श्रीमन्महाभारते सौप्तिकपर्वणि ऐषीकपर्वणि सप्तदशोऽध्यायः॥ 17 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|